|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.65. अध्यायः 065
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति शशिबिन्दुयशोनुवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-65-0x(4420)(47145)
शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम।
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः॥ 7-65-1(47146)
तस्य भार्यासहस्राणां शतमासीन्महात्मनः।
एकैकस्यां च भार्यायां सहस्रं तनयाभवन्॥ 7-65-2(47147)
ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः॥ 7-65-3(47148)
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः।
सर्वेऽश्वमेधैरीजानाः कुमाराः शाशिबिन्दवाः॥ 7-65-4(47149)
तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योददत्पिता।
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः॥ 7-65-5(47150)
राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः।
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः॥ 7-65-6(47151)
रथेरथे शतं चाश्वा बलिनो हेममालिनः।
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः॥ 7-65-7(47152)
एतद्धनमपर्याप्तमश्वमेधे महामस्वे।
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत॥ 7-65-8(47153)
वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन्॥ 7-65-9(47154)
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश॥ 7-65-10(47155)
तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम्। 7-65-11(47156)
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः॥ 7-65-11(47157)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-65-12(47158)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चषष्टितमोऽध्यायः॥ 65 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-65- त्रयोदशास्त्र निचयाः शिष्टाः॥ 5-65- पञ्चषष्टितमोऽध्यायः॥ 65 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|